घालीन लोटांगण
Ghalin Lotangan
घालीन लोटांगण वंदीन चरण । डोळ्यांनी पाहिन रूप तुझे । प्रेमें आलिंगीन आनंदे पूजिन । भावे ओवाळीन म्हणे नामा ॥ १ ॥
त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ २ ॥
कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै । नारायणायेति समर्पयामि ॥ ३ ॥
अच्युतं केशवं रामनारायणम् । कृष्णदामोदरं वासुदेवं भजे । श्रीधरं माधवं गोपिकावल्लभम् । जानकीनायकं रामचंद्रं भजे ॥ ४ ॥
हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥
मंगलमूर्ती मोरया । गणपती बाप्पा मोरया ॥
॥ शुभम् भवतु ॥
This page is part of the family prayer library.
This page is part of the family prayer library.