ॐस्मरणPrayer Library
← Back to Mantra
Mantra · Sanskrit

मंत्रपुष्पांजली

Mantra Pushpanjali

Reading size 100%

॥ मंत्रपुष्पांजली ॥

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १ ॥

ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥ २ ॥

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति ॥ ३ ॥

तदप्येषः श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ ४ ॥

॥ मंत्रपुष्पांजली समर्पयामि ॥

॥ शुभम् भवतु ॥
This page is part of the family prayer library.