ॐस्मरणPrayer Library
← Back to Stotra
Stotra · Sanskrit

महिषासुरमर्दिनि स्तोत्रम्

Aigiri Nandini

Reading size 100%

॥ श्रीमहिषासुरमर्दिनि स्तोत्रम् ॥

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते । गिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते । त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते । दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते । शिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते । मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्डविखण्डितरुण्डवितुण्डितशुण्डगजाधिपते । रिपुगजगण्डविदारणचण्डपराक्रमशुण्डमृगाधिपते । निजभुजदण्डनिपातितखण्डविपातितमुण्डभटाधिपते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मदशत्रुवधोदितदुर्धरनिर्जरशक्तिभृते । चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते । दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतान्तमते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागतवैरिवधुवरवीरवराभयदायकरे । त्रिभुवनमस्तकशूलविरोधिशिरोऽधिकृतामलशूलकरे । दुमिदुमितामरधुन्दुभिनादमहोमुखरीकृतदिङ्मकरे । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते । समरविशोषितशोणितबीजसमुद्भवशोणितबीजलते । शिवशिवशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचरते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुषङ्गरणक्षणसङ्गपरिस्फुरदङ्गनटत्कटके । कनकपिशङ्गपृषत्कनिषङ्गरसद्भटशृङ्गहताबटुके । कृतचतुरङ्गबलक्षितिरङ्गघटद्बहुरङ्गरटद्बटुके । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललनाततथेयितथेयिकृताभिनयोदरनृत्यरते । कृतकुकुथः कुकुथोगडदादिकतालकुतूहलगानरते । धुधुकुटधुक्कुटधिंधिमितध्वनिधीरमृदङ्गनिनादरते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जयेजयशब्दपरस्तुतितत्परविश्वनुते । झणझणझिञ्झिमिझिङ्कृतनूपुरशिञ्जितमोहितभूतपते । नटितनटार्धनटीनटनायकनाटितनाट्यसुगानरते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते । श्रितरजनीरजनीरजनी रजनीरजनी करवक्त्रवृते । सुनयनविभ्रमरभ्रमरभ्रमरभ्रमरभ्रमराधिपते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहितमहाहवमल्लमतल्लिकमल्लितरल्लकमल्लरते । विरचितवल्लिकपल्लिकमल्लिकझिल्लिकभिल्लिकवर्गवृते । शितकृतफुल्लसमुल्लसितारुणतल्लजपल्लवसल्ललिते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्डगलन्मदमेदुरमत्तमतङ्गजराजपते । त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते । अयि सुदतीजनलालसमानसमोहनमन्मथराजसुते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामलकोमलकान्तिकलाकलितामलभाललते । सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले । अलिकुलसङ्कुलकुवलयमण्डलमौलिमिलद्बकुलालिकुले । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरववीजितकूजितलज्जितकोकिलमञ्जुमते । मिलितपुलिन्दमनोहरगुञ्जितरञ्जितशैलनिकुञ्जगते । निजगणभूतमहाशबरीगणसद्गुणसम्भृतकेलितले । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीतदुकूलविचित्रमयुखतिरस्कृतचन्द्ररुचे । प्रणतसुरासुरमौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचे । जितकनकाचलमौलिमदोर्जितनिर्भरकुञ्जरकुम्भकुचे । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजितसहस्रकरैकसहस्रकरैकसहस्रकरैकनुते । कृतसुरतारकसङ्गरतारकसङ्गरतारकसूनुसुते । सुरथसमाधिसमानसमाधिसमाधिसमाधिसुजातरते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे । अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् । तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम् । भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् । तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम् । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते । किमु पुरुहूतपुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते । मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे । अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते । यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

॥ इति श्रीमहिषासुरमर्दिनि स्तोत्रं सम्पूर्णम् ॥

॥ शुभम् भवतु ॥
This page is part of the family prayer library.